|
|
 |
 |
|
|
१ आदिपर्व.jpg)
॥ श्रीः ॥
1.222. अध्यायः 222
Mahabharata - Adi Parva - Chapter Topics
भीष्मेण दुर्योधनादिसमीपे पाण्डवेक्ष्योऽर्धराज्यं दातव्यमिति स्वाबिप्रायकथनम्॥ 1 ॥
Mahabharata - Adi Parva - Chapter Text
भीष्म उवाच। 1-222-0x(1223)(9656)
न रोचते विग्रहो मे पाण्डुपुत्रैः कथंचन।
यथैव धृतराष्ट्रो मे तथा पाण्डुरसंशयम्॥ 1-222-1(9657)
गान्धार्याश्च यथा पुत्रास्तथा कुन्तीसुता मम।
यथा च मम ते रक्ष्या धृतराष्ट्र तथा तव॥ 1-222-2(9658)
यथा च मम राज्ञश्च तथा दुर्योधनस्य ते।
तथा कुरूणां सर्वेषामन्येषामपि पार्थिव॥ 1-222-3(9659)
एवं गते विग्रहं तैर्न रोचे
सन्धाय वीरैर्दीयतामर्धभूमिः।
तेषामपीदं प्रपितामहानां
राज्यं पितुश्चैव कुरूत्तमानाम्॥ 1-222-4(9660)
दुर्योधन यथा र्जायं त्वमिदं तात पश्यसि।
मम पैतृकमित्येवं तेऽपि पश्यन्ति पाण्डवाः॥ 1-222-5(9661)
यदि राज्यं न ते प्राप्ताः पाण्डवेया यशस्विनः।
कुत एव तवापीदं भारतस्यापि कस्यचित्॥ 1-222-6(9662)
अधर्मेण च राज्यं त्वं प्राप्तवान्भरतर्षभ।
तेऽपि राज्यमनुप्राप्ताः पूर्वमेवेति मे मतिः॥ 1-222-7(9663)
मधुरेणैव राज्यस्य तेषामर्धं प्रदीयताम्।
एतद्धि पुरुषव्याघ्र हितं सर्वजनस्य च॥ 1-222-8(9664)
अतोऽन्यथा चेत्क्रियते न हितं नो भविष्यति।
तवाप्यकीर्तिः सकला भविष्यति न संशयः॥ 1-222-9(9665)
कीर्तिरक्षणमातिष्ठ कीर्तिर्हि परमं बलम्।
नष्टकीर्तेर्मनुष्यस्य जीवितं ह्यफळं स्मृतम्॥ 1-222-10(9666)
यावत्कीर्तिर्मनुष्यस्य न प्रणश्यति कौरव।
तावज्जीवति गान्धरे नष्टकीर्तिस्तु नश्यति॥ 1-222-11(9667)
तमिमं समुपातिष्ठ धर्मं कुरुकुलोचितम्।
अनुरूपं महाबाहो पूर्वेषामात्मनः कुरु॥ 1-222-12(9668)
दिष्ट्या ध्रियन्ते पार्था हि दिष्ट्या जीवति सा पृथा।
दिष्ट्या पुरोचनः पापो न सकामोऽत्ययं गतः॥ 1-222-13(9669)
यदाप्रभृति दग्धास्ते कुन्तिभोजसुतासुताः।
तदाप्रभृति गान्धारे न शक्नोम्यभिवीक्षितुम्॥ 1-222-14(9670)
लोके प्राणभृतां किंचिच्छ्रुत्वा कुन्तीं तथागताम्।
न चापि दोषेण तथा लोको मन्येत्पुरोचनम्।
यथा त्वां पुरुषव्याघ्र लोको दोषेण गच्छति॥ 1-222-15(9671)
तदिदं जीवितं तेषां तव किल्बिषनाशनम्।
संमन्तव्यं महाराज पाण्डवानां च दर्शनम्॥ 1-222-16(9672)
न चापि तेषां वीराणां जीवतां कुरुनन्दन।
पित्र्योंशः शक्य आदातुमपि वज्रभृता स्वयं॥ 1-222-17(9673)
ते सर्वेऽवस्थिता धर्मे सर्वे चैवैकचेतसः।
अधर्मेण निरस्ताश्च तुल्ये राज्ये विशेषतः॥ 1-222-18(9674)
यदि धर्मस्त्वया कार्यो यदि कार्यं प्रियं च मे।
क्षेमं च यदि कर्तव्यं तेषामर्धं प्रदीयताम्॥ ॥ 1-222-19(9675)
इति श्रीमन्महाभारते आदिपर्वणि विदुरागमनराज्यलाभपर्वणि द्वाविंशत्यधिकद्विशततमोऽध्यायः॥ 222 ॥
Mahabharata - Adi Parva - Chapter Footnotes
1-222-8 मधुरेण प्रीत्या॥ 1-222-13 ध्रियन्ते जीवन्ति॥ 1-222-15 गच्छति अवगच्छति॥ द्वाविंशत्यधिकद्विशततमोऽध्यायः॥ 222 ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|